॥ मार्कण्डेयप्रोक्तं श्रीनृसिंहपुराणे विष्णुमृत्युञ्जयस्तोत्र ॥
मार्कण्डेय उवाच –
नारायणं सहस्राक्षं पद्मनाभं पुरातनम् ।
प्रणतोऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति ॥ 1॥
गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् ।
केशवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ 2॥
वासुदेवं जगद्योनिं भानुवर्णमतीन्द्रियम् ।
दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ 3॥
शङ्खचक्रधरं देवं छन्नरूपिणमव्ययम् ।
अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ 4॥
वाराहं वामनं विष्णुं नरसिंहं जनार्दनम् ।
माधवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ 5॥
पुरुषं पुष्करं पुण्यं क्षेमबीजं जगत्पतिम् ।
लोकनाथं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ 6॥
भूतात्मानं महात्मानं जगद्योनिमयोनिजम् ।
विश्वरूपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ 7॥
सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम् ।
महायोगं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ 8॥
इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनः ।
अपयातस्ततो मृत्युर्विष्णुदूतैश्च पीडितः ॥ 9॥
इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता ।
प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम् ॥ 10॥
मृत्युञ्जयमिदं पुण्यं मृत्युप्रशमनं शुभम् ।
मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥ 11॥
य इदं पठते भक्त्या त्रिकालं नियतः शुचिः ।
नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥ 12॥
हृत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमादिदेवम् ।
सञ्चिन्त्य सूर्यादपि राजमानं मृत्युं स योगी जितवांस्तदैव ॥ 13॥
॥ इति श्रीनृसिंहपुराणे मार्कण्डेयप्रोक्तं विष्णुमृत्युञ्जयस्तोत्रम् संपूर्णम् ॥
Roman Transliteration and English Translation
॥ mārkaṇḍeyaproktaṁ śrīnr̥siṁhapurāṇe viṣṇumr̥tyuñjayastotra ॥
mārkaṇḍeya uvāca –
nārāyaṇaṁ sahasrākṣaṁ padmanābhaṁ purātanam ।
praṇato’smi hr̥ṣīkeśaṁ kiṁ me mr̥tyuḥ kariṣyati ॥ 1॥
govindaṁ puṇḍarīkākṣamanantamajamavyayam ।
keśavaṁ ca prapanno’smi kiṁ me mr̥tyuḥ kariṣyati ॥ 2॥
vāsudevaṁ jagadyoniṁ bhānuvarṇamatīndriyam ।
dāmodaraṁ prapanno’smi kiṁ me mr̥tyuḥ kariṣyati ॥ 3॥
śaṅkhacakradharaṁ devaṁ channarūpiṇamavyayam ।
adhokṣajaṁ prapanno’smi kiṁ me mr̥tyuḥ kariṣyati ॥ 4॥
vārāhaṁ vāmanaṁ viṣṇuṁ narasiṁhaṁ janārdanam ।
mādhavaṁ ca prapanno’smi kiṁ me mr̥tyuḥ kariṣyati ॥ 5॥
puruṣaṁ puṣkaraṁ puṇyaṁ kṣemabījaṁ jagatpatim ।
lokanāthaṁ prapanno’smi kiṁ me mr̥tyuḥ kariṣyati ॥ 6॥
bhūtātmānaṁ mahātmānaṁ jagadyonimayonijam ।
viśvarūpaṁ prapanno’smi kiṁ me mr̥tyuḥ kariṣyati ॥ 7॥
sahasraśirasaṁ devaṁ vyaktāvyaktaṁ sanātanam ।
mahāyogaṁ prapanno’smi kiṁ me mr̥tyuḥ kariṣyati ॥ 8॥
ityudīritamākarṇya stotraṁ tasya mahātmanaḥ ।
apayātastato mr̥tyurviṣṇudūtaiśca pīḍitaḥ ॥ 9॥
iti tena jito mr̥tyurmārkaṇḍeyena dhīmatā ।
prasanne puṇḍarīkākṣe nr̥siṁhe nāsti durlabham ॥ 10॥
mr̥tyuñjayamidaṁ puṇyaṁ mr̥tyupraśamanaṁ śubham ।
mārkaṇḍeyahitārthāya svayaṁ viṣṇuruvāca ha ॥ 11॥
ya idaṁ paṭhate bhaktyā trikālaṁ niyataḥ śuciḥ ।
nākāle tasya mr̥tyuḥ syānnarasyācyutacetasaḥ ॥ 12॥
hr̥tpadmamadhye puruṣaṁ purāṇaṁ nārāyaṇaṁ śāśvatamādidevam ।
sañcintya sūryādapi rājamānaṁ mr̥tyuṁ sa yogī jitavāṁstadaiva ॥ 13॥
॥ iti śrīnr̥siṁhapurāṇe mārkaṇḍeyaproktaṁ viṣṇumr̥tyuñjayastotram saṁpūrṇam ॥